॥ दत्तमंगलचण्डिकास्तोत्रम् ॥

॥ दत्तमंगलचण्डिकास्तोत्रम् ॥

ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मंगलचण्डिके।
ऐं क्रूं फट् स्वाहा इति एवं चाप्येकविंशाक्षरो मनुः॥
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः।
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम्॥
मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः।
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्वसम्मतम्॥
देविं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम्।
सर्वरूपगुणाढ्यां च कोमलांगीं मनोहराम्॥
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम्।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम्॥
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम्।
विम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम्॥
ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम्।
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पादाम्॥
षोडशकलाधारिणी वज्रपीठमण्डपध्वजाम्।
संसारसागरे घोरे पोतरूपां वरां भजे॥
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने।
प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः॥

हरिहर उवाच
रक्ष रक्ष जगन्मातर्देवि मंगलचण्डिके।
हारिके विपदां राशेर्हर्षमंगलकारिके॥
हर्षमंगलदक्षे च शुभमंगलचण्डिके।
शुभे मंगलदक्षे च दत्तमंगलचण्डिके॥
मंगले मंगलार्हे च सर्वमंगलमंगले।
सतां मंगलदे देवि सर्वेषां मंगलालये॥
पूज्या मंगलवारे च मंगलाभीष्टदैवते।
पूज्ये मंगलभूपस्य मनुवंशस्य सन्ततम्॥
मंगलाधिष्ठातृदेवि मंगलानां च मंगले।
संसारमंगलाधारे मोक्षमंगलदायिनि॥
सारे च मंगलाधारे पारे च सर्वकर्मणाम्।
प्रतिमंगलवारे च पूज्ये च मंगलप्रदे॥
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मंगलचण्डिकाम्।
प्रतिमंगलवारे च पूजां कृत्वा गतः शिवः॥
देव्याश्च मंगलस्तोत्रं यः शृणोति समाहितः।
तन्मंगलं भवेत् शश्वत् न भवेत् तद् अमंगलम्॥

मन्त्रध्यानसहितं दत्तमंगलचण्डिकास्तोत्रं सम्पूर्णम्।
शुभं भवतु। शुभं भवतु। शुभं भवतु॥

—————————————————————————————-

॥ दत्तमंगलचण्डिकास्तोत्रम् ॥ PDF File For Download

स्तोत्राची पीडीएफ डाऊनलोड करण्यासाठी इथे क्लिक करा!

 

 

You cannot copy content of this page